Proofing

This page has not been fully proofread.

क. १९. ]
 
द्वितीयोऽध्यायः ।
 
३४५
 
स्थानः तदनुरूप एव पुत्रो जायते ; न हि चतुष्पदो द्विपा-
ज्जायते द्विपदों वा चतुष्पात; स एव हि परमेश्वरो
 
'
 
नामरूपे व्याकुर्वाणः रूपं रूपं प्रतिरूपो बभूव । किमर्थे
 
--
 
पुनः प्रतिरूपमागमनं तस्येत्युच्यते तत् अस्य आत्मनः
रूपं प्रतिचक्षणाय प्रतिख्यापनाय ; यदि हि नामरूपे
न व्याक्रियेते, तदा अस्य आत्मनो निरुपाधिकं रूपं
प्रज्ञानघनाख्यं न प्रतिख्यायेत ; यदा पुनः कार्यकरणा-
त्मना नामरूपे व्याकृते भवतः, तदा अस्य रूपं
प्रतिख्यायेत । इन्द्रः परमेश्वर: मायाभि: प्रज्ञाभिः नाम-
रूपभूतकृतमिध्याभिमानैर्वा न तु परमार्थतः, पुरुरूपः बहु-
रूप:, ईयते गम्यते - एकरूप एव प्रज्ञानघनः सन् अवि-
द्याप्रज्ञाभिः । कस्मात्पुनः कारणात् ? युक्ताः रथ इव वा-
जिनः, स्वविषयप्रकाशनाय, हि यस्मात्, अस्य हरयः
हरणात् इन्द्रियाणि, शता शतानि दश च प्राणिभेदबा
हुल्यात् शतानि दश च भवन्ति; तस्मात् इन्द्रियविषयबा-
हुल्यात् तत्प्रकाशनायैव च युक्तानि तानि न आत्मप्रकाश-
नाय ; ' पराश्चि खानि व्यतृणत्स्वयंभूः' इति हि काठके ।
तस्मात् तैरेव विषयस्वरूपैरीयते, न् प्रज्ञानघनैकरसेन स्व-
रूपेण । एवं तर्हि अन्यः परमेश्वरः अन्ये हरय इत्येवं प्राप्ते