Proofing

This page has not been fully proofread.

३४४
 
बृहदारण्यकोपनिषद्भष्ये
 
r
 
[ब्रा. ५.
 
तथा न एनेन किंचनासंवृतम् अन्तरननुप्रवेशितम् - बाह्य-
भूतेनान्तर्भूतेन च न अनावृतम् ; एवं स एव नामरूपा-
त्मना अन्तर्बहिर्भावेन कार्यकरणरूपेण व्यवस्थित: ; पुर-
चक्रे इत्यादिमन्त्रः संक्षेपत आत्मैकत्वमाचष्ट इत्यर्थः ॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्वि-
भ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् ।
रूप रूपं प्रतिरूपो बभूव तदस्य रूपं
प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप
ईयते युक्ता ह्यस्य हरयः शता दशेति ।
अयं वै हरयोऽयं वै दश च सहस्राणि
बहूनि चानन्तानि च तदेतद्ब्रह्मापूर्वमन
परमनन्तरमबाह्यमयमात्मा ब्रह्म सर्वा-
नुभूरित्यनुशासनम् ॥ १९ ॥
 
इति द्वितीयाध्यायस्य पञ्चमं ब्राह्मणम् ॥
 
इदं वै तन्मध्वित्यादि पूर्ववत । रूपं रूपं प्रतिरूपो
बभूव - रूपं रूपं प्रति प्रतिरूपः रूपान्तरं बभूवेत्यर्थः ;
प्रतिरूपोऽनुरूपो वा यादृक्संस्थानौ मातापितरौ तत्सं-