Proofing

This page has not been fully proofread.

३४२
 
बृहदारण्यकोपनिषद्भाष्ये
 
'
 
C.
 
[ब्रा. ५.
 
शिरः ब्राह्मणं प्रति ऐरयतं गमितवन्तौ युवाम् ; स
च आथर्वण: वां युवाभ्याम् तन्मधु · प्रवोचत् यत्पूर्व
प्रतिज्ञातम् - वक्ष्यामीति । स किमर्थमेवं जीवितसंदे-
हमारुह्य प्रवोचदित्युच्यते - ऋतायन यत्पूर्व प्रतिज्ञातं
सत्यं तत्परिपालयितुमिच्छन्; जीवितादपि हि सत्यधर्म-
परिपालना गुरुतरेत्येतस्य लिङ्गमेतत् । किं तन्मधु प्रवोच-
दित्युच्यते - त्वाष्ट्रम् त्वष्टा आदित्यः, तस्य संबन्धि - य-
ज्ञस्य शिरश्छिन्नं त्वष्ट्रा अभवत्, तत्प्रतिसंधानार्थे प्रवर्ग्य
कर्म, तत्र प्रवर्ग्यकर्माङ्गभूतं यद्विज्ञानं तत् त्वाष्ट्रं मधु - य-
ज्ञस्य शिरश्छेदनप्रति संघानादिविषयं दर्शनं तवाष्ट्रं यन्मधु;
हे दस्रौ दस्राविति परबलानामुपक्षपयितारौ शत्रूणां हिंसि-
तारौ ; अपि च न केवलं त्वाष्ट्रमेव मधु कर्मसंबन्धि युवा-
भ्यामवोचत्; अपि च कक्ष्यं गोप्यं रहस्यं परमात्म संबन्धि
यद्विज्ञानं मधु मधुब्राह्मणेनोक्तुं अध्याय द्वय प्रकाशितम्,
तच वां युवाभ्यां प्रवोचदित्यनुवर्तते ॥
 
,
 
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्वि-
भ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् ।
पुरचक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः
स पक्षी भूत्वा पुरः पुरुष आविशदिति ।