Proofing

This page has not been fully proofread.

क. १७.]
 
वतः ;
 
द्वितीयोऽध्यायः ।
 
-
 
३४१
 
मीयत इति न चान्यत्किंचिद्धीयत एवेति स्तुतावेतौ भ-
निन्दां प्रशंसां हि लौकिकाः स्मरन्ति; तथा प्रशं-
सारूपा च निन्दा लोके प्रसिद्धा । दध्यङ्नाम आथर्वण: ;
हेत्यनर्थको निपातः ; यन्मधु कक्ष्यम् आत्मज्ञानलक्षणम्
आथर्वणः वां युवाभ्याम अश्वस्य शीर्णा शिरसा प्रयत्
ईम् उवाच - यत्प्रोवाच मधु ; ईमित्यनर्थको निपातः ॥
 
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विः
भ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् ।
आथर्वणायाश्विनौ दधीचेऽव्य शिरः
प्रत्यैरयतम् । स वां मधु प्रवोचदृताय-
न्त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वामिति ॥ १७ ॥
 
www.g
 
इदं वै तमध्वित्यादि पूर्ववत् मन्त्रान्तरप्रदर्शनार्थम् ।
तथा अन्यो मन्त्रः तामेव आख्यायिकामनुसरति स्म ।
आथर्वणो दध्यङ्नाम-
आथर्वणोऽन्यो विद्यत इत्यतो
विशिनष्टि - दध्यङ्नाम आथर्वणः, तस्मै दधीचे आ-
थर्वणाय, हे अश्विनाविति मन्त्रदृशो वचनम् ; अश्व्यम्
अश्वस्य स्वभूतम् शिरः, ब्राह्मणस्य शिरसि च्छिन्ने
 
"
 
अश्वस्य शिरश्छित्वा ईदृशमतिक्रूरं कर्म कृत्वा अश्व्यं