2026-05-06 06:30:53 by ambuda-bot
This page has not been fully proofread.
३४०
बृहदारण्यकोपनिषद्भाष्ये
'
[ ब्रा. ५.
स्वं शिर आहृत्य तद्धास्य प्रतिदधतुरिति । यावत्तु प्रवर्ग्य कर्मा-
ङ्गभूतं मधु, तावदेव तत्राभिहितम; न तु कक्ष्यमात्मज्ञाना-
ख्यम् ; तत्र या आख्यायिका अभिहिता, सेह स्तुत्यर्था प्रद-
ते; इदं वै तन्मधु दध्यङ्ङाथर्वणः अनेन प्रपञ्चेन अश्वि
भ्यामुवाच । तदेतदृषिः -- तदेतत्कर्म, ऋषिः मन्त्रः पश्यन्
उपलभमानः, अवोचत् उक्तवान् ; कथम ? तत् दंस: इति व्य-
वहितेन संबन्ध:, दंस इति कर्मणो नामधेयम; तच्च दंस:
किंविशिष्टम् ? उयं क्रूरम्, वां युवयोः, हे नरा नराकाराव-
श्विनौ; तच्च कर्म किंनिमित्तम् ? सनये लाभाय ; लाभलु-
धो हि लोकेऽपि क्रूरं कर्म आचरति, तथैव एतावुपलभ्ये-
ते यर्था लोके; तत् आविः प्रकाशं कृणोमि करोमि, यत्
रहसि भवद्भयां कृतम् ; किमिवेत्युच्यत - तन्यतुः पर्जन्य:, न
इव ; नकारस्तु उपरिष्टादुपचारः उपमार्थीयो वेदे, न प्रति-
षेधार्थ : - यथा 'अश्वं न अश्वमिवेति यद्वत्; तन्यतुरिव
वृष्टिं यथा पर्जन्यो वृष्टिं प्रकाशयति स्तनयित्वा दिशब्दैः,
तद्वत् अहं युवयोः क्रूरं कर्म आविष्कृणोमीति संबन्धः ।
ननु अश्विनोः स्तुत्यर्थौ कथमिमौ मन्त्रौ स्याताम् ! निन्दाव-
चनौ- हीमो - नैष दोष: ; स्तुतिरेवैषा, न निन्दावचनौ;
यस्मात् ईदृशमप्यतिक्रूरं कर्म कुर्वतोर्युवयोः न लोम च