2026-05-06 06:30:50 by ambuda-bot
This page has not been fully proofread.
३३८
बृहदारण्यकोपनिषद्भाष्ये
-
[ब्रा. ५.
विद्यया कर्मनिरपेक्षया प्राप्यते; यस्मात् कर्मप्रकरणे वक्तुं
प्राप्तापि सती प्रवर्ग्यप्रकरणे, कर्मप्रकरणादुत्तीर्य कर्मणा
विरुद्धत्वात् केवलसंन्याससहिता अभिहिता अमृतत्वसाध-
नाय - तस्मात् नातः परं पुरुषार्थ साधनमस्ति । अपि च
एवं स्तुता ब्रह्मविद्या- सर्वो हि लोको द्वन्द्वाराम:, 'सवै
नैव रेमे तस्मादेकाकी न रमते इति श्रुते; याज्ञवल्क्यो
लोकसाधारणोऽपि सन आत्मज्ञानबलात भार्यापुत्रवित्तादि-
संसाररतिं परित्यज्य प्रज्ञानतृप्त आत्मरतिर्बभूव । अपि च
एवं स्तुता ब्रह्मविद्या - यम्मात् याज्ञवल्क्येन संसारमा -
गत् व्युत्तिष्ठतापि प्रियायै भार्यायै प्रीत्यर्थमेव अभिहिता,
' प्रियं भाषस एह्यास्स्व' इति लिङ्गान ।
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्वि-
भ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् ।
तां नरा सनये दस उग्रमाविष्कृणोमि
तन्यतुर्न वृष्टिम् । दध्यङ् ह यन्मध्वाथ-
र्वणो वामश्वस्य शीर्णा प्र यदीमुवा-
चेति ॥ १६ ॥
तत्र इयं स्तुत्यर्था आख्यायिकेत्यवोचाम का पुन: