2026-05-06 06:30:50 by ambuda-bot
This page has not been fully proofread.
क. १५. ]
द्वितीयोऽध्यायः ।
३३७
द्रादगाधात् उत्तरिष्यन्ति, नेतरे स्वबुद्धिकौशलानुसारिणः ॥
-
परिसमाप्ता ब्रह्मविद्या अमृतत्वसाधनभूता, यां मैत्रेयी
पृष्टवती भर्तारम् ' यदेव भगवानमृतत्वसाधनं वेद तदेव
मे ब्रूहि' इति । एतस्या ब्रह्मविद्याया: स्तुत्यर्था इयमाख्या-
यिका आनीता । तस्या आख्यायिकायाः संक्षेपतोऽर्थप्रका-
शनीर्थावेतौ मन्त्रौ भवतः ; एवं हि मन्त्रब्राह्मणाभ्यां स्तुत-
त्वात् अमृतत्व सर्वप्राप्तिसाधनत्वं ब्रह्मविद्यायाः प्रकटीकृतं रा-
जमार्गमुपनीतं भवति - यथा आदित्यः उद्यन् शावरं तमो-
ऽपनयतीति- तद्वत् । अपि च एवं स्तुता ब्रह्मविद्या-
या इन्द्ररक्षिता सा दुष्प्रापा देवैरपि यस्मात् अश्विभ्या-
मपि देवभिषग्भ्याम् इन्द्ररक्षिता विद्या महता आयासेन
प्राप्ता ; ब्राह्मणस्य शिरश्छित्त्वा अश्व्यं शिरः प्रतिसं-
धाय, तस्मिन्निन्द्रेण च्छन्ने पुनः स्वशिर एव प्रतिसंघाय,
तेन ब्राह्मणस्य स्वशिरसैव उक्ता अशेषा ब्रह्मविद्या श्रुता;
यस्मात् ततः परतरं किंचित्पुरुषार्थसाधनं न भूतं न भवि
वा, कुत एव वर्तमानम् - इति नातः परा स्तुतिरस्ति ।
अपि चैवं स्तूयते ब्रह्मविद्या - सर्वपुरुषार्थानां कर्म हि
साधनमिति लोके प्रसिद्धम; तच्च कर्म वित्तसाध्यम्, तेन
आशापि नास्त्यमृतत्वस्य ; तदिदममृतत्वं केवलया आत्म-