Proofing

This page has not been fully proofread.

३३६
 
6
 
बृहदारण्यकोपनिषद्भाष्ये
 
"
 
'
 
[ ब्रा. ५.
 
"
 
गमविदः शास्त्रार्थे विरुद्धं मन्यमाना विकल्पयन्तो मोहम-
गाधमुपयान्ति । तमेतमर्थम् एतौ मन्त्रावनुब्रदत :- 'अने-
जदेकं मनसो जवीय:' ' तदेजति तन्नैजति' इति । तथा च तै-
त्तिरीयके, ' यस्मात्परं नापरमस्ति किंचित्' एतत्साम
गायन्नास्ते ' अहमन्नमहमन्नमहमन्नम्' इत्यादि । तथा च
च्छान्दोग्ये '
'जक्षत्क्रीडन्रममाणः ', ' स यदि पितृलोककाम:
'सूर्वगन्धः सर्वरस : ', ' सर्वज्ञः सर्ववित्' इत्यादि । अथ-
र्वणे च ' दूरात्सुदूरे तदिहान्ति के च' । कठवल्लीष्वपि 'अणो-
रणीयान्महतो महीयान ' कस्तं मदामदं देवम्' ' तद्धावतो-
ऽन्यानत्येति तिष्टत्' इति च । तथा गीतासु ' अहं क्रतुरहं
यज्ञ: ' ' पिताहमस्य जगत: नादत्ते कस्यचित्पापम् ' ' समं
 
26
 
सर्वेषु भूतेषु' 'अविभक्तं विभक्तेषु' ' प्रसिष्णु प्रभविष्णु
च' इति — एवमाद्यागमार्थ विरुद्धमिव प्रतिभान्तं
मन्यमानाः स्वचित्तसामर्थ्यात् अर्थनिर्णयाय विकल्पयन्त:-
अस्त्यात्मा
 
नास्त्यात्मा,
 
कर्ता अकर्ता, मुक्तः
 
बद्धः,
 
क्षणिको विज्ञानमात्रं शून्यं च इत्येवं विकल्पयन्तः
न पारमधिगच्छन्त्यविद्यायाः, विरुद्धधर्मदर्शित्वात्सर्वत्र ।
तस्मात् तत्र य एव श्रुत्याचार्यदर्शितमार्गानुसारिणः, त ए-
वाविद्याया: पारमधिगच्छन्ति ; त एव च अस्मान्मोहसमु-