Proofing

This page has not been fully proofread.

३३४
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ५.
 
रथनाभौ च रथनेमी चाराः सर्वे सम-
पिता एवमेवास्मिन्नात्मनि सर्वाणि भूता-
नि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः
सर्व एत आत्मानः समर्पिताः ॥ १५ ॥
 
यस्मिन्नात्मनि परिशिष्टो विज्ञानमयः अन्त्ये पर्याये,
प्रवेशितः, सोऽयमात्मा । तस्मिन अविद्याकृत कार्यकरणसंघा-
तोपाधिविशिष्टे ब्रह्मविद्यया परमार्थात्मनि प्रवेशिते, स एव-
मुक्तः अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनभूतः, स
वै- स
एव अयमात्मा अव्यवहितपूर्व पर्याये 'तेजोमय:' इत्यादिना
निर्दिष्टो विज्ञानात्मा विद्वान् सर्वेषां भूतानामय मात्मा - सर्वै-
रुपास्यः-- सर्वेषां भूतानामधिपतिः सर्वभूतानां स्वतन्त्रः- न
कुमारामात्यवत् - किं तर्हि सर्वेषां भूतानां राजा, राजत्ववि -
शेषणम् ' अधिपति:' इति भवति कश्चित् राजोचितवृ-
त्तिमाश्रित्य राजा, न तु अधिपतिः, अतो विशिनष्टि अधि-
पतिरिति एवं सर्वभूतात्मा विद्वान् ब्रह्मवित् मुक्तो भवति ।
यदुक्तम्-
'ब्रह्मविद्यया सर्वे भविष्यन्तो मनुष्या मन्यन्ते,
किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत् ' इतीदम्, तत् व्याख्यातम्
एवम्- आत्मानमेव सर्वात्मत्वेन आचार्यागमाभ्यां श्रुत्वा,
 
-
 
;
 
मत्वा तर्कतः, विज्ञाय साक्षात् एवम्, यथा मधुब्राह्मणे