Proofing

This page has not been fully proofread.

क. १५.]
 
"
 
द्वितीयोऽध्यायः ।
 
अयमात्मा सर्वेषां भूतानां मध्वस्या-
त्मनः सर्वाणि भूतानि मधु यश्चायम-
स्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो
यश्चायमात्मा तेजोमयोऽमृतमयः पुरु-
षोऽयमेव स योऽयमात्मेदममृतमिदं ब्र-
'ह्मेद' सर्वम् ॥ १४ ॥
 
३३३
 
यस्तु कार्यकरणसंघातो मानुषादिजातिविशिष्टः, सोऽय-
मात्मा सर्वेषां भूतानां मधु । ननु अयं शारीरशब्देन निर्दिष्टः
पृथिवीपर्याय एव - न, पार्थिवांशस्यैव तत्र ग्रहणात; इह
तु सर्वात्मा प्रत्यस्तमिताध्यात्माधिभूताधिदैवादिसर्वविशेषः
सर्वभूतदेवतागणविशिष्टः कार्यकरणसंघातः सः ' अर्थमात्मा'
इत्युच्यते । तस्मिन] अस्मिन आत्मनि तेजोमयोऽमृतमयः
पुरुष: अमूर्तरसः सर्वात्मको निर्दिश्यते; एकदेशेन तु पृथि-
व्यादिषु निर्दिष्टः, अत्र अध्यात्मविशेषाभावात् सः न निर्दि-
श्यते । यस्तु परिशिष्टो विज्ञानमय:- यदर्थोऽयं देहलिङ्ग-
संघात आत्मा - स: ' यश्चायमात्मा' इत्युच्यते ॥
 
स वा अयमात्मा सर्वेषां भूतानाम-
धिपतिः सर्वेषां भूतानां राजा तद्यथा