Proofing

This page has not been fully proofread.

३३२
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. ५.
 
तथा दृष्टेनानुष्ठीयमानेन आचाररूपेण सत्याख्यो भवति,
स एव धर्मः ; सोऽपि द्विप्रकार एव सामान्यविशेषात्म-
रूपेण- सामान्यरूपः पृथिव्यादिसमवेतः, विशेषरूपः कार्य-
करणसंघातसमवेत:; तत्र पृथिव्यादिसमवेते वर्तमानक्रिया-
रूपे सत्ये, तथा अध्यात्मं कार्यकरणसंघातसमवेते सत्ये,
भवः सात्यः - 'सत्येन वायुरावाति' इति श्रुत्यन्तरान् ॥,
 
.
 
इदं मानुषः सर्वेषां भूतानां मध्वस्य
मानुषस्य सर्वाणि भूतानि मधु यश्चाय-
मस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो
यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृत-
मयः पुरुषोऽयमेव स योऽयमात्मेदममृत-
मिदं ब्रह्मे सर्वम् ॥ १३ ॥
 
धर्मसत्याभ्यां प्रयुक्तोऽयं कार्यकरणसंघातविशेषः, स येन
जातिविशेषेण संयुक्तो भवति, स जातिविशेषो मानुषादिः ;
तत्र मनुषादिजातिविशिष्टा एव सर्वे प्राणिनिकाया: परम्प-
रोपकार्योपकारकभावेन वर्तमाना दृश्यन्ते ; अतां मानुषा-
दिजातिरपि सर्वेषां भूतानां मधु । तत्र मानुषादिजातिरपि
बाह्या आध्यात्मिकी चेति उभयथा निर्देशभाक् भवति ॥