2026-05-06 06:30:47 by ambuda-bot
This page has not been fully proofread.
क. १२.]
'
द्वितीयोऽध्यायः ।
३३१
तत्प्रयुक्तेन प्रत्यक्षेण व्यपदिश्यते - अयं धर्म इति - प्रत्यक्ष-
वत् । धर्मश्च व्याख्यातः श्रुतिस्मृतिलक्षणः, क्षत्रादीनामपि
नियन्ता, जगतो वैचित्र्यकृत् पृथिव्यादीनां परिणामहेतु-
त्वात् प्राणिभिरनुष्ठीयमानरूपश्च ; तेन च 'अयं धर्म:' इति
प्रत्यक्षेण व्यपदेशः । सत्यधर्मयोश्व अभेदेन निर्देश: कृत:
शास्त्राचारलक्षणयो:; इह तु भेदेन व्यपदेश एकत्वे सत्यपि,
दृष्टादृष्टभेदरूपेण कार्यारम्भकत्वात् । यस्तु अदृष्टः अपूर्वा -
ख्यो धर्मः, स सामान्यविशेषात्मना अदृष्टेन रूपेण कार्य-
मारभते- सामान्यरूपेण पृथिव्यादीनां प्रयोक्ता भवति,
विशेषरूपेण च अध्यात्मं कार्यकरणसंघातस्य ; तत्र प्रथि -
व्यादीनां प्रयोक्तरि- यश्चायमस्मिन्धर्मे तेजोमय: ; तथा
अध्यात्मं कार्यकरणसंघातकर्तरि धर्मे भवो धर्मः ॥
इदः सत्यः सर्वेषां भूतानां मध्वस्य
सत्यस्य सर्वाणि भूतानि मधु यश्चायम-
स्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो य-
इचागमध्यात्मथ् सात्यस्तेजोमयोऽमृतम-
यः पुरुषोऽयमेव स योऽयमात्मेदममृत-
मिदं ब्रह्मेद सर्वम् ॥ १२ ॥