Proofing

This page has not been fully proofread.

क. ५.]
 
द्वितीयोऽध्यायः ।
 
३२७
 
अयं वायुः सर्वेषां भूतानां मध्वस्य
वायोः संर्वाणि भूतानि मधु यश्चायम-
स्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो य-
श्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः
पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं
ब्रह्मेद ँ सर्वम् ॥ ४ ॥
 
तथा वायु:, अध्यात्मं प्राणः । भूतानां शरीरारम्भक-
त्वेनोपकारात् मधुत्वम् ; तदन्तर्गतानां तेजोमयादीनां कर-
णत्वेनोपकारान्मधुत्वम्; तथा चोक्तम्-
' तस्यै वाच:
 
पृथिवी शरीरं ज्योतीरूपमयमग्निः ' इति ॥
 
अयमादित्यः सर्वेषां भूतानां मध्व-
स्यादित्यस्य सर्वाणि भूतानि मधु गश्चा-
यमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरु-
षो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽ-
मृतमयः पुरुषोऽयमेव स योऽयमात्मद-
ममृतमिदं ब्रह्मेदँ सर्वम् ॥ ५ ॥
 
तथा आदित्यो मधु, चाक्षुषः अध्यात्मम् ॥