Proofing

This page has not been fully proofread.

३२४
 
बृहदारण्यकोपनिषद्भाष्ये
 
:
 
[ ब्रा. ५.
 
सर्वम इति प्रतिज्ञातस्य आत्मोत्पत्तिस्थितिलयत्वं हेतु-
मुक्त्वा, पुनः आगमप्रधानेन मधुब्राह्मणेन प्रतिज्ञातस्य अ-
र्थस्य निगमनं क्रियते ; तथाहि नैयायिकैरुक्तम- 'हेत्व पदे-
शात्प्रतिज्ञायाः पुनर्वचनं निगमनम् इति । अन्यैर्व्याख्या-
तम् — आ दुन्दुभिदृष्टान्तात् श्रोतव्यार्थमागमवचनम्, प्रा.
मधुब्राह्मणात् मन्तव्यार्थम् उपपत्तिप्रदर्शनेन मधुब्राह्मणेन
तु निदिध्यासनविधिरुच्यत इति । सर्वथापि तु यथा आग-
मेनावधारितम्, तर्कतस्तथैव मन्तव्यम् ; यथा तर्कती मत-
म्, तस्य तर्कागमाभ्यां निश्चितस्य तथैव निदिध्यासनं क्रि-
यत इति पृथक् निदिध्यासनविधिरनर्थक एव; तस्मात्
पृथक् प्रकरणविभागः अनर्थक इत्यस्मदभिप्रायः श्रवणमन-
ननिदिध्यासनानामिति । सर्वथापि तु अध्याय द्वयस्यार्थः
अस्मिन्त्राह्मणे उपसंहियते ॥
 
.
 
1
 
इयं पृथिवी सर्वेषां भूतानां मध्वस्यै
पृथिव्यै सर्वाणि भूतानि मधु यश्चायम-
स्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो
यश्वायमध्यात्मँ शारीरस्तेजोमयोऽमृत-
मयः पुरुषोऽयमेव स योऽयमात्मदममृत-
मिदं ब्रह्मेद सर्वम् ॥ १ ॥