Proofing

This page has not been fully proofread.

'पञ्चमं ब्राह्मणम् ॥
 
यत् केवलं कर्मनिरपेक्षम् अमृतत्वसाधनम्, तद्वक्त-
व्यमिति मैत्रेयीब्राह्मणमारब्धम् तच्च आत्मज्ञानं सर्वसं-
न्यासाङ्ग विशिष्टम् आत्मनि च विज्ञाते सर्वमिदं विज्ञातं
 
;
 
भवति ; आत्मा च प्रियः सर्वस्मात्; तस्मात् आत्मा द्रष्ट-
व्य: ; स च श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति च
दर्शनप्रकारा उक्ता:; तत्र श्रोतव्यः, आचार्यागमाभ्याम् ;
मन्तव्यः तर्कत:; तत्र च तर्क उक्त:- 'आत्मैवेदं सर्वम्
इति प्रतिज्ञातस्य हेतुवचनम् आत्मैकसामान्यत्वम् आत्मैकोद्भ-
वत्वम् आत्मैकप्रलयत्वं च; तत्र अयं हेतुः असिद्ध इत्या-
शङ्कते आत्मैकसामान्योद्भवप्रलयाख्यः; तदाशङ्कानिवृत्त्य-
र्थमेतद्ब्राह्मणमारभ्यते । यस्मात् परस्परोपकार्योपकारकभूतं
जगत्सर्वं पृथिव्यादि यच्च लोके परस्परोपकार्योपकारक-
भूतं तत् एककारणपूर्वकम् एकसामान्यात्मकम् एकप्रलयं
च दृष्टम्, तस्मात् इदमपि प्रथिव्यादिलक्षणं जगत् पर-
स्परोपकार्योपकारकत्वात् तथाभूतं भवितुमर्हति - एष
ह्यर्थः अस्मिन्ब्राह्मणे प्रकाश्यते । अथवा 'आत्मैवेदं
 
'
 
,
 
3