Proofing

This page has not been fully proofread.

३२२
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ४.
 
ज्ञानमुपपद्यते ; तस्मात् येन इदं सर्वे विजानाति, तं विज्ञा-
तारं केन करणेन को वा अन्य: विजानीयात् - यदा तु
पुनः परमार्थविवेकिनो ब्रह्मविदो विज्ञातैव केवलोऽद्वयो
वर्तते, तं विज्ञातारं अरे केन विजानीयादिति ॥
 
इति द्वितीयाध्यायस्य चतुर्थ ब्राह्मणम् ॥