2026-05-06 06:30:43 by ambuda-bot
This page has not been fully proofread.
क. ११.]
द्वितीयोऽध्यायः ।
३२१
लापितम् आत्मैव संवृत्तम्- यत्र एवम् आत्मैवाभूत्,
तत् तत्र केन करणेन कं घ्रातव्यं को जिघेत् ? तथा
पश्येत् ? विजानीयात्; सर्वत्र हि कारकसाध्या क्रिया ;
अतः कारकाभावेऽनुपपत्तिः क्रियाया:; क्रियाभावे च
फलाभाव: । तस्मात् अविद्यायामेव सत्यां क्रियाकारकफल-
व्र्व्यवहारः, न ब्रह्मविदः - आत्मत्वादेव सर्वस्य, न आत्म-
व्यतिरेकेण कारकं क्रियाफलं वास्ति ; न च अनात्मा सन्
सर्वमात्मैव भवति कस्यचित्; तस्मात् अविद्ययैव अनात्मत्वं
परिकल्पितम् ; न तु परमार्थत आत्मव्यतिरेकेणास्ति किं-
चित्; तस्मात् परमार्थात्मैकत्वप्रत्यये क्रियाकारकफलप्रत्य-
यानुपपत्तिः अत: विरोधात् ब्रह्मविदः क्रियाणां तत्साध-
नानां च अत्यन्तमेव निवृत्तिः । केन कमिति क्षेपार्थं वचनं
प्रकारान्तरानुपपत्तिदर्शनार्थम्, केनचिदपि प्रकारेण क्रिया-
करणादिकारकानुपपत्तेः- केनचित् कंचित् कश्चित् कथंचित्
न जिवेत्यर्थः । यत्रापि अविद्यावस्थायाम् अन्यः अन्यं
पश्यति, तत्रापि येनेदं सर्वं विजानाति, तं केन विजानी-
यात् - येन विजानाति, तस्य करणस्य, विज्ञेये विनियुक्त -
त्वात् ; ज्ञातुश्च ज्ञेय एव हि जिज्ञासा, न आत्मनि; न च
अग्नेरिव आत्मा आत्मनो विषय: ; न च अविषय ज्ञातुः
S. B. C. 21