Proofing

This page has not been fully proofread.

३२०
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. ४.
 
---
 
ननु
 
कथं तर्हि प्रेत्य संज्ञा नास्तीत्युच्यते शृणु यत्र यस्मिन्
अविद्याकल्पिते कार्यकरणसंघातोपाधिजनिते विशेषात्मनि
खिल्यभावे, हि यस्मात् द्वैतमिव - परमार्थतोऽद्वैते ब्रह्मणि
द्वैतमिव भिन्नमिव वस्त्वन्तरमात्मनः- उपलक्ष्यते-
द्वैतेनोपमीयमानत्वात् द्वैतस्य पारमार्थिकत्वमिति न, 'वा-
चारम्भणं विकारो नामधेयम्' इति श्रुत्यन्तरात् एक-
मेवाद्वितीयम्' 'आत्मैवेदं सर्वम्' इति च - तत् तत्र
यस्माद्वैतमिव तस्मादेव इतरोऽसौ परमात्मनः खिल्यभूत
आत्मा अपरमार्थः, चन्द्रादेवि उदकचन्द्रादिप्रतिबिम्ब:,
इतरो घ्राता इतरेण ब्राणेन इतरं घ्रातव्यं जिघ्रति ;
इतर इतरमिति कारकप्रदर्शनार्थम् जिघ्रतीति क्रियाफ-
लयोरभिधानम् - यथा छिनत्तीति - यथा उद्यम्य उद्यम्य
निपातनम् छेद्यस्य च द्वैधीभावः उभयं छिनत्तीत्येकेनैव
शब्देन अभिधीते- क्रियावसानत्वात् क्रियाव्यतिरेकेण
च तत्फलस्यानुपलम्भात्; इतरो व्राता इतरेण घ्राणेन
इतरं घ्रातव्यं जिघ्रति- तथा सर्व पूर्ववत्- विजाना-
ति; इयम् अविद्यावदवस्था । यत्र तु ब्रह्मविद्यया अविद्या
नाशमुपगमिता तब आत्मव्यतिरेकेण अन्यस्याभाव:; यत्र
वै अस्य ब्रह्मविदः सर्व नामरूपादि आत्मन्येव प्रवि-
 
"