2026-05-06 06:30:41 by ambuda-bot
This page has not been fully proofread.
क. १४.]
;
द्वितीयोऽध्यायः ।
३१९
सर्वस्य जगतः परमार्थतो भूतनाशात् न विनाशी ; वि-
नाशी तु अविद्याकृत: खिल्यभाव:, 'वाचारम्भणं विकारो
नामधेयम्' इति श्रुत्यन्तरात् । अयं तु पारमार्थिक :- अवि-
`नाशी वा अरेऽयमात्मा ; अत: अलं पर्याप्तम् वै अरे इदं
महद्भूतमनन्तमपारं यथाव्याख्यातम् विज्ञानाय विज्ञातुम् ;
'न: हि विज्ञातुर्विज्ञातर्विपरिलोपो विद्यतेऽविनाशित्वात् '
इति हि वक्ष्यति ॥
यत्र हि द्वैतमिव भवति तदितर इतरं
जिघ्रति तदितर इतरं पश्यति तदितर
इतर ५ शृणोति तदितर इतरमभिवदति
तदितर इतरं मनुते तदितर इतरं विजा-
नाति यत्र वा अस्य सर्वमात्मैवाभूत्तत्के-
न कं जिघेतत्केन कं पश्येत्तत्केन क
शृणुयात्तत्केन कमभिवदेत्तत्केन कं म-
न्वीत तत्केन कं विजानीयात् । येनेद
सर्व विजानाति तं केन विजानीयाद्विज्ञा-
तारमरे केन विजानीयादिति ॥ १४ ॥
इति द्वितीयाध्यायस्य चतुर्थ ब्राह्मणम् ॥