2026-05-06 06:30:40 by ambuda-bot
This page has not been fully proofread.
क. १३.]
द्वितीयोऽध्यायः ।
३१७-
दिवत् तेषु विनश्यत्सु अन्वेव एष
एष विशेषात्मखिल्य-
भावो विनश्यति ; ' यथा उदकालक्तकादिहेत्वपनये सू-
र्यचन्द्रस्फटिकादिप्रतिबिम्बो विनश्यति, चन्द्रादिस्वरूप-
मेव परमार्थतो व्यवतिष्ठते, तद्वत् प्रज्ञानघनमनन्तमपारं
स्वच्छं व्यवतिष्ठते । न तत्र प्रेत्य विशेषसंज्ञास्ति का-
करणसंघातेभ्यो विमुक्तस्य- इत्येवम् अरे मैत्रेयि
ब्रवीमि – नास्ति विशेषसंज्ञेति - अहमसौ अमुष्य पुत्रः
ममेदं क्षेत्रं धनम् सुखी दुःखीत्येवमादिलक्षणा, अविद्या-
कृतत्वात्तस्याः; अविद्यायाश्च ब्रह्मविद्यया निरन्वयतो नाशि-
तत्वात् कुतो विशेषसंज्ञासंभवो ब्रह्मविद : चैतन्यस्वभावा-
वस्थितस्य ; शरीरावस्थितस्यापि विशेषसंज्ञा नोपपद्यते कि-
मुत कार्यकरणविमुक्तस्य सर्वतः । इति ह उवाच
न्किल परमार्थदर्शनं मैत्रेय्यै भार्यायै याज्ञवल्क्यः ॥
उक्तवा-
सा होवाच मैत्रेय्यंत्रैव मा भगवान -
मूमुहन्न प्रेत्य संज्ञास्तीति स होवाच न
वा अरेऽहं मोहं ब्रवीम्यलं वा अर इदं
विज्ञानाय ॥ १३ ॥
एवं प्रतिबोधिता सा ह किल उवाच उक्तवती मैत्रेयी-