Proofing

This page has not been fully proofread.

३१६
 
वृहदारण्यकोपनिषद्भाष्ये
 
'
 
[ ब्रा. ४.
 
रमिति । विज्ञप्तिः विज्ञानम् विज्ञानं च तद्वनश्चेति विज्ञा-
नघन, घनशब्दो जात्यन्तरप्रतिषेधार्थः - यथा सुवर्णधनः
अयोघन इति ; एव-शब्दोऽवधारणार्थ :- नान्यत् जात्यन्तरम्
अन्तराले विद्यत इत्यर्थः । यदि इदमेकमद्वैतं परमार्थतः स्व-
च्छं संसारदुःखासंपृक्तम्, किंनिमित्तोऽयं खिल्यभाव आ-
त्मन:- जातो मृतः सुखी दुःखी अहं ममेत्येवमादिलक्षणः
अनेक संसारधर्मोपद्रुत इति उच्यते—- एतेभ्यो भूतेभ्य:-
यान्येतानि कार्यकरणविषयाकारपरिणतानि नामरूपात्म-
कानि सलिलफेनबुद्बुदोपमानि स्वच्छस्य परमात्मन: सलि-
लोपमम्य, येषां विषयपर्यन्तानां प्रज्ञानघने ब्रह्मणि परमा-
विवेकज्ञानेन प्रविलापनमुक्तम् नदीसमुद्रवत - एतेभ्यो हेतु-
भूतेभ्यः भूतेभ्यः सत्यशब्दवाच्येभ्यः समुत्थाय सैन्धव-
खिल्यवत्- यथा अद्भयः सूर्यचन्द्रादिप्रतिबिम्ब:, यथा वा
स्वच्छस्य स्फटिकस्य अलक्तकाद्युपाधिभ्यो रक्तादिभाव:,
एवं कार्यकरणभूतभूतोपाधिभ्यो विशेषात्मखिल्यभावेन स-
मुत्थाय सम्यगुत्थाय- येभ्यो भूतेभ्य उत्थितः तानि यदा
कार्यकरणविषयाकारपरिणतानि भूतानि आत्मनो विशेषा-
त्मखिल्यहेतुभूतानि शास्त्राचार्योपदेशेन ब्रह्मविद्यया नदी -
समुद्रवत् प्रविलापितानि विनश्यन्ति, सलिलफेनबुद्बुदा-