Proofing

This page has not been fully proofread.

क. १२.]
 
-
 
द्वितीयोऽध्यायः ।
 
३१५
 
स्वादयेत् लवणास्वादमेव तत् उदकम्, न तु खिल्यभावः ।
यथा अयं दृष्टान्तः, एवमेव वै अरे मैलेयि इदं परमात्मा-
ख्यं महद्भूतम्~~~~ यस्मात् महतो भूतात् अविद्यया परिच्छि-
न्ना सती कार्यकरणोपाधिसंबन्धात्खिल्यभावमापन्नासि, म-
र्या जन्ममरणाशनायापिपासादिसंसारधर्मवत्यसि, नामरूप-
कार्यात्मिका - अमुष्यान्वयाहमिति स खिल्यभावस्तव
कार्यकरणभूतोपाधिसंपर्क भ्रान्तिजनितः महति भूते स्वयो-
नौ महासमुद्रस्थानीये परमात्मनि अजरेऽमरेऽभये शुद्धे
सैन्धवधनवदेकर से प्रज्ञानघनेऽनन्तेऽपारे निरन्तरे अवि-
द्याजनितभ्रान्तिभेदवर्जिते प्रवेशित:; तस्मिन्प्रविष्टे स्व-
योनिमस्ते खिल्यभावे अविद्याकृते भेदभावे प्रणाशिते-
इदमेकमद्वैतं महद्भूतम्— महच्च तद्भूतं च महद्भूतं सर्वमहत्त-
रत्वात् आकाशादिकारणत्वाश्च भूतम् - त्रिष्वपि कालेषु
स्वरूपाव्यभिचारात् सर्वदैव परिनिष्पन्नमिति त्रैकालिको नि-
ष्ठाप्रत्यय: ; अथवा भूतशब्दः परमार्थवाची, महच्च पारमा-
र्थिकं चेत्यर्थः ; लौकिकं तु यद्यपि महद्भवति, स्वप्नमायाकृतं
हिमवदादिपर्वतोपमं न परमार्थवस्तु; अतो विशिनष्टि-
इदं तु महच्च तद्भूतं चेति । अनन्तम् नास्यान्तो विद्यत
इत्यनन्तम् ; कदाचिदापेक्षिकं स्यादित्यतो विशिनष्टि अपा-
 
.