2026-05-06 06:30:39 by ambuda-bot
This page has not been fully proofread.
क. १२.]
द्वितीयोऽध्यायः ।
३१३
ag सर्वत्र विषयस्यैव प्रलयोऽभिहितः, न तु करणस्य ;
तत्र कोऽभिप्राय इति — बाढम; किंतु विषयसमानजातीयं
करणं मन्यते श्रुतिः, न तु जात्यन्तरम्; विषयस्यैव स्वात्म-
ग्राहकत्वेन संस्थानान्तरं करणं नाम - यथा रूपविशेष-
स्यैव संस्थानं प्रदीपः करणं सर्वरूपप्रकाशने एवं सर्व-
विषयविशेषाणामेव स्वात्मविशेषप्रकाशकत्वेन संस्थानान्त-
राणि करणानि, प्रदीपवत्; तस्मात् न करणानां पृथक्प्रलये
यत्तः कार्य: ; विषयसामान्यात्मकत्वात् विषय प्रलयेनैव
प्रलयः सिद्धो भवति करणानामिति ॥
तत्र ' इदं सर्वं यदयमात्मा' इति प्रतिज्ञातम् ; तत्र हेतुर-
भिहित: - आत्मसामान्यत्वम्, आत्मजत्वम्, आत्मप्रलयत्वं
च; तस्मात् उत्पत्तिस्थितिप्रलयकालेषु प्रज्ञानव्यतिरेकेणाभावा-
तू ' प्रज्ञानं ब्रह्म' 'आत्मैवेदं सर्वम्' इति प्रतिज्ञातं यत्, तत्
तर्कतः साधितम् । स्वाभाविकोऽयं प्रलय इति पौराणिका
वदन्ति । यस्तु बुद्धिपूर्वकः प्रलय: ब्रह्मविदां ब्रह्मविद्यानि -
मित्त:, अयम् आत्यन्तिक इत्याचक्षते - अविद्यानिरोधद्वारेण
यो भवति तदर्थोऽयं विशेषारम्भ:-
स यथा सैन्धवखिल्य उदके प्रास्त
उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव