Proofing

This page has not been fully proofread.

३१२
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. ४.
 
एवं मनोविषयोऽपि बुद्धिविषयसामान्यमात्रे प्रविष्टः तद्व्य-
तिरेकेणा भावभूतो भवति ; विज्ञानमात्रमेव भूत्वा प्रज्ञान-
घने परे ब्रह्मणि आप इव समुद्रे प्रलीयते । एवं परम्पराक्र-
मेण शब्दादौ सह ग्राहकेण करणेन प्रलीने प्रज्ञानघने, उ-
पाध्यभावात् सैन्धवघनवत् प्रज्ञानघनम् एकरसम् अनन्तम्
अपारं निरन्तरं ब्रह्म व्यवतिष्ठते । तस्मात् आत्मैव एक-
मद्वयमिति प्रतिपत्तव्यम् । तथा सर्वेषां गन्धानां पृथिवी-
विशेषाणाम् नासिके घ्राणविषयसामान्यम् । तथा स-
र्वेषां रसानामविशेषाणाम् जिह्वेन्द्रियविषयसामान्यम् ।
तथा सर्वेषां रूपाणां तेजोविशेषाणाम् चक्षुः चक्षुर्विषय-
सामान्यम् । तथा शब्दानां श्रोत्रविषयसामान्यं पूर्व-
वत् । तथा श्रोत्रादिविषयसामान्यानां मनोविषयसा-
 
मान्ये संकल्पे ; मनोविषयसामान्यस्यापि बुद्धिविषयसा-
मान्ये विज्ञानमात्रे ; विज्ञानमात्रं भूत्वा परस्मिन्प्रज्ञानघने
प्रलीयते । तथा कर्मेन्द्रियाणां विषया वदनादानगमनवि-
सर्गानन्दविशेषाः तत्तत्क्रियासामान्येष्वेव प्रविष्ठा न विभा-
गयोग्या भवन्ति, समुद्र इव अव्विशेषाः ; तानि च सामा-
न्यानि प्राणमात्रम् ; प्राणश्च प्रज्ञानमात्रमेव - 'यो वै प्राण:
सा प्रज्ञा या वै प्रज्ञा स प्राण: ' इति कौषीतकिनोऽधीयते ।