2026-05-06 06:30:39 by ambuda-bot
This page has not been fully proofread.
क. ११.]
द्वितीयोऽध्यायः ।
३११
षां विसर्गाणां पायुरेकायनमेव सर्वेषा-
मध्वनां पादावेकायनमेव सर्वेषां वेदा-
नां वागेकायनम् ॥ ११ ॥
किंचान्यत् ; न केवलं स्थित्युत्पत्तिकालयोरेव प्रज्ञान-
व्यतिरेकेणाभावात् जगतो ब्रह्मत्वम्; प्रलयकाले च ; जलबु-
द्रुदफैनादीनामिव सलिलव्यतिरेकेणाभाव:, एवं प्रज्ञान्य-
तिरेकेण तत्कार्याणां नामरूपकर्मणां तस्मिन्नेव लीयमानाना-
मभावः ; तस्मात् एकमेव ब्रह्म प्रज्ञानघनम् एकरसं प्रति-
पत्तव्यमित्यत आह । प्रलयप्रदर्शनाय दृष्टान्त: ; स इति
दृष्टान्त: ; यथा येन प्रकारेण, सर्वासां नदीवापीतडागादि-
गतानामपाम्, समुद्रः अब्धिः एकायनम्, एकंगमनम्
एकप्रलयः अविभागप्राप्तिरित्यर्थः ; यथा अयं दृष्टान्तः,
एवं
सर्वेषां स्पर्शानां मृदुकर्कशकठिनपिच्छिलादीनां वायोरात्म-
भूतानां त्वक् एकायनम्, त्वगिति त्वग्विषयं स्पर्शसामा-
न्यमात्रम्, तस्मिन्प्रविष्टाः स्पर्शविशेषा:- आप इव समु-
द्रम् - तद्व्यतिरेकेणाभावभूता भवन्ति तस्यैव हि ते संस्था-
नमात्रा आसन् । तथा तदपि स्पर्शसामान्यमात्रं त्व-
क्शब्दवाच्यं मनःसंकल्पे मनोविषयसामान्यमात्रे, श्वग्वि-
षय इव स्पर्शविशेषाः, प्रविष्टं तद्व्यतिरेकेणाभावभूतं भवति ;
;