Proofing

This page has not been fully proofread.

३१०
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ४.
 
णयोः सलिलफेनवत् तत्त्वान्यत्वेनानिर्वक्तव्ययोः सर्वाव-
स्थयोः संसारत्वम्-- इत्यतः नाम्न एव निश्वसितत्वमुक्तम्,
तद्वचनेनैव इतरस्य निश्वसितत्वसिद्धेः ः । अथवा सर्वस्य
द्वैतजातस्य अविद्याविषयत्वमुक्तम् — 'ब्रह्म तं परादात् इदं
सर्वे यदयमात्मा' इति तेन वेदस्याप्रामाण्यमाशङ्कथेत;
तदाशङ्कानिवृत्त्यर्थमिदमुक्तम्- पुरुषनिश्वासवत् अप्रयत्नो-
त्थितत्वात् प्रमाणं वेद:, न यथा अन्यो ग्रन्थ इति ॥
 
;
 
स यथा सर्वासामपाँ समुद्र एकाय-
नमेव सर्वेषाँ स्पर्शानां त्वगेकायनमे-
व सर्वेषां गन्धानां नासिके एकायनमे
वँ सर्वेषाँ रसानां जिह्वैकायनमेव‍
सर्वेषा रूपाणां चक्षुरेकायनमेव‍ सर्वे -
षाँ शब्दाना श्रोत्रमेकायनमेव सर्वे-
बाँ संकल्पानां मन एकायनमेव‍ स-
aai विद्याना हृदयमेकायनमेव स-
देषां कर्मणा हस्तावेकायनमेव सर्वे-
षामानन्दानामुपस्थ एकायनमेव‍ सर्वे-