Proofing

This page has not been fully proofread.

क. १०.]
 
इत्याद्याः,
 
द्वितीयोऽध्यायः ।
 
३०९
 
तमित्युच्यते - यहवेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस:-
चतुर्विधं मन्त्रजातम्, इतिहास इति, उर्वशीपुरूरवसो : सं-
वादादि:- ' उर्वशी हाप्सरा:' इत्यादि ब्राह्मणमेव, पुराणम्-
'असद्वा इदमग्र आसीत्' इत्यादि, विद्या देवजनविद्या-
वेदः सोऽयम् - इत्याद्या, उपनिषदः ' प्रियमित्येतदुपासीत '
श्लोकाः ब्राह्मणप्रभवा मन्त्राः 'तदेते श्लोकाः' इत्या-
दय:, सूत्राणि वस्तुसंग्रहवाक्यानि वेदे यथा- ' आत्मेत्येवो-
पासीत' इत्यादीनि, अनुव्याख्यानानि मन्त्रविवरणानि,
व्याख्यानान्यर्थवादाः, अथवा वस्तुसंग्रहवाक्यविवरणान्य-
नुव्याख्यानानि यथा चतुर्थाध्याये 'आत्मेत्येवोपासीत '
इत्यस्य यथा वा 'अन्योऽसावन्योऽहमस्मीति न से वेद
यथा पशुरेवम्' इत्यस्य अयमेवाध्यायशेषः, मन्त्रविवर-
णानि व्याख्यानानि - एवमष्टविधं ब्राह्मणम् । एवं मन्त्र-
ब्राह्मणयोरेव ग्रहणम् ; नियतरचनावतो विद्यमानस्यैव वेद-
स्याभिव्यक्तिः पुरुषनिश्वासवत् न च पुरुषबुद्धिप्रयत्नपू-
र्वक: ; अतः प्रमाणं निरपेक्ष एव स्वार्थे; तस्मात् यत्
तेनोक्तं तत्तथैव प्रतिपत्तव्यम्, आत्मन: श्रेय इच्छद्भिः,
ज्ञानं वा कर्म वेति । नामप्रकाशवशाद्धि रूपस्य विक्रिया-
वस्था ; नामरूपयोरेव हि परमात्मोपाधिभूतयोन्यक्रियमा
 
-
 
,