2026-05-06 06:30:35 by ambuda-bot
This page has not been fully proofread.
३०६
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ४.
शब्दाव्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्र
हणेन दुन्दुभ्याघातस्य वा शब्दो गृ
हीतः ॥ ७ ॥
कथं पुनः इदानीम् इदं सर्वमात्मैवेति ग्रहीतुं शक्यते ?
चिन्मात्रानुगमात्सर्वत्र चित्स्वरूपतैवेति गम्यते ; तत्र दृ-
ष्टान्त उच्यते-— यत्स्वरूपव्यतिरेकेणाग्रहणं यस्य तस्य
तदात्मत्वमेव लोके दृष्टम् ; स यथा -- स इति दृष्टान्त: ;
लोके यथा दुन्दुभेः भेर्यादेः, हन्यमानम्य ताड्यमानस्य
दण्डादिना, न, बाह्यान् शब्दान् बहिर्भूतान् शब्दविशेषान्
दुन्दुभिशब्दसामान्यान्निष्कृष्टान दुन्दुभिशब्द विशेषान्, न
शक्नुयात् ग्रहणाय ग्रहीतुम्; दुन्दुभेस्तु ग्रहणेन, दु-
न्दुभिशब्दसामान्य विशेषत्वेन, दुन्दुभिशब्दा एते इति,
शब्दविशेषा गृहीता भवन्ति, दुन्दुभिशब्दसामान्यव्य-
तिरेकेणाभावात् तेषाम् ; दुन्दुभ्याघातस्य वा दुन्दुभेरा-
हननम् आघात:- दुन्दुभ्याघातविशिष्टस्य शब्दसामान्यस्य
ग्रहणेन तद्गता विशेषा गृहीता भवन्ति, न तु त एव नि-
भिंद्य ग्रहीतुं शक्यन्ते, विशेषरूपेणाभावात् तेषाम् — तथा
प्रज्ञातव्यतिरेकेण स्वप्नजागरितयोः न कश्चिद्वस्तुविशेषो गृ-
ह्यते ; तस्मात् प्रज्ञानव्यतिरेकेण अभावो युक्तस्तेषाम् ॥