Proofing

This page has not been fully proofread.

क. ७.]
 
द्वितीयोऽध्यायः ।
 
३०५
 
भूतानि वेद सर्व तं परादाद्योऽन्यत्रात्म-
नः सर्व वेदेदं ब्रह्मेदं क्षत्रमिमे लोका
इमे देवा इमानि भूतानीदः सर्वे यदय-
मात्मा ॥ ६ ।
 
ननु कथम् अन्यस्मिन्विदिते अन्यद्विदितं भवति ? नैष
दोष; न हि आत्मव्यतिरेकेण अन्यत्किंचिदस्ति ; यद्यस्ति,
न तद्विदितं स्यात् ; न त्वन्यदस्ति; आत्मैव तु सर्वम् ;
तस्मात् सर्वम् आत्मनि विदिते विदितं स्यात् । कथं पुन-
रात्मैव सर्वमित्येतत् श्रावयति — ब्रह्म ब्राह्मणजाति: तं पुरुषं
परादात् परादध्यात् पराकुर्यात् ; कम् ? यः अन्यन्त्रात्मनः
आत्मस्वरूपव्यतिरेकेण - आत्मैव न भवतीयं ब्राह्मणजाति-
रिति- तां यो वेद, तं परादध्यात् सा ब्राह्मणजाति: अनात्म-
स्वरूपेण मां पश्यतीति; परमात्मा हि सर्वेषामात्मा । तथा
क्षत्रं क्षत्रियजातिः, तथा लोका:, देवा:, भूतानि, सर्वम् ।
इदं ब्रह्मेति - यान्यनुक्रान्तानि तानि सर्वाणि आत्मैव,
यदयमात्मा - योऽयमात्मा द्रष्टव्यः श्रोतव्य इति प्रकृत: ---
यस्मात् आत्मनो जायते आत्मन्येव लीयत आत्ममयं च
स्थितिकाले, आत्मव्यतिरेकेणाग्रहणात् आत्मैव सर्वम् ॥
 
'
 
"
 
"
 
स यथा दुन्दुभेर्हन्यमानस्य न बाह्या-
 
S. B. U. 20