Proofing

This page has not been fully proofread.

३०४
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. ४.
 
लोकप्रसिद्धमेतत् - आत्मैव प्रियः, नान्यत् । ' तदेतत्प्रेयः
पुत्रात्' इत्युपन्यस्तम् तस्यैतत् वृत्तिस्थानीयं प्रपश्चितम् ।
तस्मात् आत्मप्रीतिसाधनत्वात् गौणी अन्यत्र प्रीतिः, आत्म-
न्येव मुख्या । तस्मात् आत्मा वै अरे द्रष्टव्यः दर्शनार्हः,
दर्शनविषयमापादयितव्यः ; श्रोतव्यः पूर्वम् आचार्यत आग-
मतश्च ; पश्चान्मन्तव्यः तर्कतः ; ततो निदिध्यासितव्यः
निश्चयेन ध्यातव्य: ; एवं ह्यसौ दृष्टो भवति श्रवणमनननिदि-
ध्यासनसाधनैर्निर्वर्तितैः ; यदा एकत्वमेतान्युपगतानि, तदा
सम्यग्दर्शनं ब्रह्मैकत्वविषयं प्रसीदति, न अन्यथा श्रवणमा-
त्रेण । यत् ब्रह्मक्षत्रादि कर्मनिमित्तं वर्णाश्रमादिलक्षणम्
आत्मन्यविद्याध्यारोपित प्रत्ययविषयं क्रियाकारकफलात्मकम्
अविद्याप्रत्ययविषयम् - रज्ज्वामिव सर्पप्रत्ययः, तदुपमर्दनार्थ-
 
माह-
 
-
 
आत्मनि खलु अरे मैत्रेयि दृष्टे श्रुते मते विज्ञाते
 
इदं सर्वविदितं विज्ञातं भवति ॥
 
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म
वेद क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं
वेद लोकास्तं परादुर्योऽन्यत्रात्मनो लो-
कान्वेद देवास्तं परादुर्योऽन्यत्रात्मनो दे-
वान्वेद भूतानि तं परादुर्योऽन्यत्रात्मनो