2026-05-06 06:30:34 by ambuda-bot
This page has not been fully proofread.
क. ५.]
द्वितीयोऽध्यायः ।
३०३
भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि
भवन्ति । न वा अरे सर्वस्य कामाय सर्व
प्रियं भवत्यात्मनस्तु कामाय सर्व प्रियं
भवति । आत्मा वा अरे द्रष्टव्यः श्रोत-
व्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्या-
त्मनो वा अरे दर्शनेन श्रवणेन मत्या वि
ज्ञानेने सर्व विदितम् ॥ ५ ॥
स होवाच— अमृतत्वसाधनं वैराग्यमुपदिदिक्षुः जाया-
पतिपुत्रादिभ्यो विरागमुत्पादयति तत्संन्यासाय । न वै-
वै-शब्दः प्रसिद्धस्मरणार्थ : ; प्रसिद्धमेव एतत् लोके; पत्युः
भर्तुः कामाय प्रयोजनाय जायायाः पतिः प्रियो न भवति,
किं तर्हि आत्मनस्तु कामाय प्रयोजनायैव भार्यायाः पतिः
प्रियो भवति । तथा न वा अरे जायाया इत्यादि समान-
मन्यत्, न वा अरे पुत्राणाम्, न वा अरे वित्तस्य, न वा
अरे ब्रह्मणः, न वा अरे क्षत्रस्य, न वा अरे लोकानाम्,
न वा अरे देवानाम्, न वा अरे भूतानाम्, न वा अरे
सर्वस्य । पूर्वं पूर्वं यथासन्ने प्रीतिसाधने वचनम्, तत्र तत्र
इष्टतरत्वाद्वैराग्यस्य; सर्वग्रहणम् उक्तानुक्तार्थम् । तस्मात्