Proofing

This page has not been fully proofread.

क. ५.]
 
द्वितीयोऽध्यायः ।
 
सा होवाच मैत्रेयी । एवमुक्ता प्रत्युवाच
 
यद्येवं येनाहं 'नामृता स्याम्, किमहं तेन वित्तेन
 
३०१
 
मैत्रेयी-
 
--
 
कुर्याम् ?
 
यदेव भगवान् केवलम् अमृतत्वसाधनं वेद, तदेव अमृतत्व-
साधनं मे मह्यं ब्रूहि ॥
 
स होवाच याज्ञवल्क्यः प्रिया बतारे
'नः सती प्रियं भाषस एह्यास्स्व व्यह-
ख्यास्यामि ते व्याचक्षाणस्य तु मे निदि-
ध्यासस्वेति ॥ ४ ॥
 
--------
 
स होवाच याज्ञवल्क्यः । एवं वित्तसाध्येऽमृतत्वसाधने
प्रत्याख्याते, याज्ञवल्क्यः स्वाभिप्रायसंपत्तौ तुष्ट आह-
स होवाच- प्रिया इष्टा, बतेत्यनुकम्प्याह, अरे मैत्रेयि, न
अस्माकं पूर्वमपि प्रिया सती भवन्ती इदानीं प्रियमेव
चित्तानुकूलं भाषसे । अतः एहि आस्स्व उपविश व्याख्या -
स्यामि यत् ते तव इष्टम् अमृतत्वसाधनमात्मज्ञानम् कथ-
यिष्यामि । व्याचक्षाणस्य तु मे मम व्याख्यानं कुर्वतः,
निदिध्यासस्य वाक्यानि अर्थतो निश्चयेन ध्यातुमिच्छेति ॥
 
-
 
स होवाच न वा अरे पत्युः कामाय
 
पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः