Proofing

This page has not been fully proofread.

३००
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ४.
 
तेनामृता स्यामिति नेति होवाच याज्ञव-
ल्क्यो यथैवोपकरणवतां जीवितं तथैव
ते जीवित‍ स्यादमृतत्वस्य तु नाशास्ति
वितेनेति ॥ २ ॥
 
सा एवमुक्ता ह उवाच - यत् यदि, 'नु' इति वितर्के,
मे मम इयं पृथिवी, भगोः भगवन्, सर्वा सागरपरिक्षिप्ता
वित्तेन धनेन पूर्णा स्यात् कथम् ? न कथंचने त्याक्षेपार्थः,
प्रश्नार्थी वा तेन पृथिवी पूर्णवित्तसाध्येन कर्मणा अग्निहोत्रा-
दिना - अमृता किं स्यामिति व्यवहितेन संबन्ध: । प्रत्युवाच
याज्ञवल्क्यःकथमिति यद्याक्षेपार्थम्, अनुमोदनम्-नेति
होवाच याज्ञवल्क्य इति प्रश्नश्चेत् प्रतिवचनार्थम् ; नैव
स्या: अमृता, किं तर्हि यथैव लोके उपकरणवतां साधन-
वतां जीवितं सुखोपायभोगसंपन्नम्, तथैव तद्वदेव तव
जीवितं स्यात्; अमृतत्वस्य तु न आशा मनसापि अस्ति
वित्तेन वित्तसाध्येन कर्मणेति ॥
 

 
साहोवाच मैत्रेयी येनाहं नामृता स्यां
किमहं तेन कुर्सी यदेव भगवान्वेद तदेव
मे ब्रूहीति ॥ ३ ॥