Proofing

This page has not been fully proofread.

क. २.]
 
द्वितीयोऽध्यायः ।
 
२९९
 
त्ययसंन्यासात् तत्कार्याणां कर्मणां कर्मसाधनानां च अर्थ-
प्राप्तश्च संन्यासः । तस्मात् आत्मज्ञानाङ्गत्वेन संन्यासविधि -
त्यैव आख्यायिकेयमारभ्यते ॥
 
-
 
मैत्रेयीति होवाच याज्ञवल्क्य उद्या -
स्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त
'तेऽनया कात्यायन्यान्तं करवाणीति ॥ १ ॥
मैत्रेयीति होवाच याज्ञवल्क्य:- मैत्रेय स्वभार्यामा-
मन्त्रितवान् याज्ञवल्क्यो नाम ऋषिः ; उद्यास्थन् ऊर्ध्व
यास्यन् पारिव्राज्याख्यमाश्रमान्तरम् वै; 'अरे' इति संबो -
धनम् ; अहम्, अस्मात् गार्हस्थ्यात् स्थानात् आश्रमात्,
ऊर्ध्वं गन्तुमिच्छन् अस्मि भवामि ; अतः हन्त अनुमति
प्रार्थयामि ते तव; किंचान्यत्- ते तव अनया द्विती-
यया भार्यया कात्यायन्या अन्तं विच्छेदं करवाणि ; पति-
द्वारेण युवयोर्मया संबध्यमानयोर्यः संबन्ध आसीत्, तस्य
संबन्धस्य विच्छेदं करवाणि द्रव्यविभागं कृत्वा ; वित्तेन
संविभज्य युवां गमिष्यामि ॥
 
-
 
'
 
साहोवाच मैत्रेयी । यन्नु म इयं भ
गोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं