Proofing

This page has not been fully proofread.

२९८
 
वृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. ४.
 
कां गतिं विद्यया यान्ति कां च गच्छन्ति कर्मणा । एतद्वै
श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे । एतावन्योन्यवैरूप्ये वर्तेते
प्रतिकूलत: ' इत्येवं पृष्टस्य प्रतिवचनेन— " कर्मणा
बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति
यतयः पारदर्शिनः' इत्येवमादि - विरोधः प्रदर्शितः ।
तस्मात् न साधनान्तरसहिता ब्रह्मविद्या पुरुषार्थ साधनम्',
सर्वविरोधात्, साधननिरपेक्षैव पुरुषार्थसाधनम् — इति
पारिव्राज्यं सर्वसाधन संन्यासलक्षणम् अङ्गत्वेन विधित्स्यते ;
एतावदेवामृतत्वसाधनमित्यवधारणात्, षष्ठसमाप्तौ लिङ्गा-
कर्मी सन्याज्ञवल्क्यः प्रवव्राजेति ।
कर्मसाधनरहितायै साधनत्वेनामृतत्वस्य ब्रह्मविद्योपदेशात्,
वित्तनिन्दावचनाच्च यदि हि अमृतत्वसाधनं कर्म स्यात्,
वित्तसाध्यं पाङ्कं कर्मेति तन्निन्दावचनमनिष्टं स्यात्;
यदि तु परितित्याजयिषितं कर्म, ततो युक्ता तत्साधन-
कर्माधिकारनिमित्तवर्णाश्रमादिप्रत्ययोपमर्दाच्च-
'ब्रह्म तं परादात् ' ' क्षत्रं तं परादात्' इत्यादे: ; न हि
ब्रह्मक्षत्राद्यात्मप्रत्ययोपमर्दे, ब्राह्मणेनेदं कर्तव्यं क्षत्रियेणेदं
कर्तव्यमिति विषयाभावात् आत्मानं लभते विधि : ; यस्यैव
पुरुषस्य उपमर्दितः प्रत्यय: ब्रह्मक्षत्राद्यात्मविषयः, तस्य तत्प्र-
 
निन्दा ।
 
-