Proofing

This page has not been fully proofread.

क. १.]
 
द्वितीयोऽध्यायः ।
 
२९७
 
कफलस्वभावसत्यशब्दवाच्याशेषभूतधर्मप्रतिषेधद्वारेण 'नेति
 
नेति' इति ज्ञापितम् । अस्या ब्रह्मविद्याया अङ्गत्वेन संन्यासो
विधित्सितः, जायापुत्रवित्तादिलक्षणं पाङ्कं कर्म अविद्या-
विषयं यस्मात् न आत्मप्राप्तिसाधनम्; अन्यसाधनं हि
अन्यस्मै फलसाधनाय प्रयुज्यमानं प्रतिकूलं भवति ; न हि
बुभुक्षापिपासानिवृत्त्यर्थं घावनं गमनं वा साधनम् ; मनुष्य-
लोकपितृलोकदेवलोकसाधनत्वेन हि पुत्रादिसाधनानि श्रता-
नि, न आत्मप्राप्तिसाधनत्वेन, विशेषितत्वाश्च ; न च ब्रह्म-
विदो विहितानि काम्यत्वश्रवणात् -' एतावान्वै काम:' इति,
ब्रह्मविदश्च आप्तकामत्वात् आप्तकांमस्य कामानुपपत्तेः,
'येषां नोऽयमात्मायं लोक:' इति च श्रुतेः । केचित्तु
ब्रह्मविदोऽप्येषणासंबन्धं वर्णयन्ति ; तैर्बृहदारण्यकं न श्रुतम् ;
पुत्राद्येषणानामविद्वद्विषयत्वम्, विद्याविषये च - 'येषां नो-
Sयमात्मायं लोक:' इत्यत: ' किं प्रजया करिष्याम:' इति -
एष विभागः तैर्न
श्रुतः श्रुत्या कृत: ; सर्वक्रियाकारक फलोप-
मर्दस्वरूपायां च विद्यायां सत्याम्, सह कार्येण अविद्याया
अनुपपत्तिलक्षणच विरोधः तैर्न विज्ञातः ; व्यासवाक्यं च
तैर्न श्रुतम् । कर्मविद्यास्वरूपयोः विद्याविद्यात्मकयोः प्रतिकू -
लवर्तनं विरोध: । ' यदिदं वेदवचनं कुरु कर्म त्यजेति च ।