Proofing

This page has not been fully proofread.

चतुर्थं ब्राह्मणम् ॥
 
2
 
आत्मेत्येवोपासीत; तदेव एतस्मिन् सर्वस्मिन् पदनीयम्
आत्मतत्त्वम्, यस्मात् प्रेयः पुत्रादे : - इत्युपन्यस्तस्य वाक्यस्य
व्याख्यानविषये संबन्धप्रयोजने अभिहिते- 'तदात्मान-
मेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्' इति ; एवं प्रत्य-
गात्मा ब्रह्मविद्याया विषय इत्येतत् उपन्यस्तम् । अविद्या-
याश्च विषय: - 'अन्योऽसावन्योऽहमस्मीति न स वेद'
इत्यारभ्य चातुर्वर्ण्यप्रविभागादिनिमित्तपाङ्ककर्मसाध्यसाधन-
लक्षण: 'बीजाङ्कुरवत् व्याकृताव्याकृतस्वभावः नामरूपकर्मा -
त्मकः संसारः 'त्रयं वा इदं नाम रूपं कर्म' इत्युपसंहृतः
शास्त्रीय उत्कर्षलक्षणो ब्रह्मलोकान्तः अघोभावश्च स्थावरा-
न्तोऽशास्त्रीयः, पूर्वमेव प्रदर्शितः - ' द्वया ह' इत्यादिना ।
एतस्मादविद्याविषयाद्विरक्तस्य प्रत्यगात्मविषय ब्रह्मविद्यायाम्
अधिकारः कथं नाम स्यादिति- तृतीयेऽध्याये उपसंहृतः
समस्तोऽविद्याविषयः । चतुर्थे तु ब्रह्मविद्याविषयं प्रत्यगा-
त्मानम् 'ब्रह्म ते ब्रवाणि' इति 'ब्रह्म ज्ञपयिष्यामि ' इति च
प्रस्तुत्य, तत् ब्रह्म एकम् अद्वयं सर्वविशेषशून्यं क्रियाकार-