Proofing

This page has not been fully proofread.

२९४
 
बृहदारण्यकोपनिषद्भाष्ये
 
[त्रा. ३.
 
शक्यते-इदं तदिति-गौरसौ स्पन्दते शुक्लो विषाणीति यथा
लोके निर्दिश्यते, तथा; अध्यारोपितनामरूपकर्मद्वारेण ब्रह्म
निर्दिश्यते ' विज्ञानमानन्दं ब्रह्म' ' विज्ञानघन एव ब्रह्मा-
त्मा' इत्येवमादिशब्दैः । यदा पुनः स्वरूपमेव निर्दिदिक्षितं
भवति निरस्त सर्वोपाधिविशेषम्, तदा न शक्यते केनचिद-
पि प्रकारेण निर्देष्टुम् ; तदा अयमेवाभ्युपायः - यदुत प्राप्त-
निर्देशप्रतिषेधद्वारेण 'नेति नेति' इति निर्देश: ॥
 
"
 
इदं च नकारद्वयं वीप्साव्याप्त्यर्थम् ; यद्यत्प्राप्तं तत्तत्
निषिध्यते ; तथा च सति अनिर्दिष्टाशङ्का ब्रह्मणः परिहृता
भवति; अन्यथा हि नकारद्वयेन प्रकृतद्वयप्रतिषेधे, यदन्यत्
प्रकृतात्प्रतिषिद्धद्वयात् ब्रह्म, तन्न निर्दिष्टम् कीदृशं तु
खलु - इत्याशङ्का न निवर्तिष्यते ; तथा च अनर्थकश्च स
निर्देश:, पुरुषस्य विविदिषाया अनिवर्तकत्वात् ; 'ब्रह्म ज्ञप-
यिष्यामि' इति च वाक्यम् अपरिसमाप्तार्थे स्यात् । यदा
तु सर्वदिक्कालादिविविदिषा निवर्तिता स्यात् सर्वोपाधिनि-
राकरणद्वारेण, तदा सैन्धवघनवत् एकरसं प्रज्ञानघनम्
अनन्तरमबाह्यं सत्यस्य सत्यम् अहं ब्रह्म अस्मीति सर्वतो
निवर्तते विविदिषा, आत्मन्येवावस्थिता प्रज्ञा भवति ।
तस्मात् वीप्सा नेति नेतीति नकारद्वयम् । ननु महता