Proofing

This page has not been fully proofread.

क. ६.]
 
द्वितीयोऽध्यायः ।
 
२९३
 
--
 
माहारजनं वास:' इत्यादय: ; किं तर्हि प्रकार प्रदर्शनार्था :-
एवंप्रकाराणि हि वासनारूपाणीति । यत्तु वासनारूपम-
भिहितमन्ते - सकृद्विद्योतनमिवेति, तत्किल हिरण्यगर्भस्य
अव्याकृतात्प्रादुर्भवतः तडिद्वत् सकृदेव व्यक्तिर्भवतीति ;
तत् तदीयं वासनारूपं हिरण्यगर्भस्य यो वेद तस्य सकृ-
द्विद्युत्व, ह वै इत्यवधारणार्थौ, एवमेव अस्य श्रीः ख्याति :
भवतीत्यर्थः, यथा हिरण्यगर्भस्य - एवम् एतत् यथोक्तं
वासनारूपमन्त्यम् यो वेद ॥
 
एवं निरवशेषं सत्यस्य स्वरूपमभिधाय, यत्तत्सत्यस्य
सत्यमवोचाम तस्यैव स्वरूपावधारणार्थे ब्रह्मण इदमारभ्य-
ते— अथ अनन्तरं सत्यस्वरूप निर्देशानन्तरम्, यत्सत्यस्य
सत्यं तदेवावशिष्यते यस्मात् - अतः तस्मात्, सत्यस्य
सत्यं स्वरूपं निर्देक्ष्यामः ; आदेश: निर्देश: ब्रह्मण: ;
कः पुनरसौ निर्देश इत्युच्यते— नेति नेतीत्येवं निर्देश: ॥
 
-
 
ननु कथम् आभ्यां ' नेति नेति' इति शब्दाभ्यां सत्य-
स्य सत्यं निर्दिदिक्षितमिति, उच्यते सर्वोपाधिविशेषापो-
हेन । यस्मिन्न कश्चिद्विशेषोऽस्ति - नाम वा रूपं वा कर्म वा
भेदो वा जातिर्वा गुणो वा ; तारेण हि शब्दप्रवृत्तिर्भव-
ति ; न चैषां कश्चिद्विशेषो ब्रह्मण्यस्ति; अतो न निर्देष्टुं