Proofing

This page has not been fully proofread.

२९२
 
"
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ३.
 
एतस्य पुरुषस्य प्रकृतस्य लिङ्गात्मन एतानि रूपाणि ;
कानि तानीत्युच्यन्ते यथा लोके, महारजनं हरिद्रा तया
रक्तं माहारजनम् यथा वासो लोके, एवं स्त्र्यादिविषयसं-
योगे तादृशं वासनारूपं रञ्जनाकारमुत्पद्यते चित्तस्य, येना-
सौ पुरुषो रक्त इत्युच्यते वस्त्रादिवत् - यथा च लोके
पाण्डाविकम् अवेरिदम् आविकम् ऊर्णादि, यथा च तत्
पाण्डुरं भवति, तथा अन्यद्वासनारूपम् - यथा च लोके
इन्द्रगोपः अत्यन्तरक्तो भवति, एवमस्य वासनारूपम्-
कचिद्विषयविशेषापेक्षया रागस्य तारतम्यम्, कचित्पुरुषचि -
तवृत्यपेक्षया- यथा च लोके अग्न्यर्चिः भास्वरं भवति,
तथा क्वचित् कस्यचित् वासनारूपं भवति - यथा पुण्डरीकं
शुक्लम्, तद्वदपि च वासनारूपं कस्यचिद्भवति-यथा सकृ-
द्विद्युत्तम्, यथा लोके सकृद्विद्योतनं सर्वतः प्रकाशकं भव-
ति, तथा ज्ञानप्रकाशविवृद्धयपेक्षया कस्यचित् वासनारू-
पम् — उपजायते । न एषां वासनारूपाणाम् आदिः अन्तः
मध्यं संख्या वा, देश: कालो निमित्तं वा अवधार्यते-
असंख्येयत्वाद्वासनायाः, वासनाहेतूनां च आनन्त्यात् ।
तथा च वक्ष्यति षष्ठे ' इदंमयोऽदोमय: ' इत्यादि ।
तस्मात् न स्वरूपसंख्यावधारणार्था दृष्टान्ता:- यथा