2026-05-06 06:30:28 by ambuda-bot
This page has not been fully proofread.
क. ६.]
6
द्वितीयोऽध्यायः ।
२९१
1 न
मयस्यैव एतानि रूपाणि कस्मान्न भवन्ति, विज्ञानमयस्यापि
प्रकृतत्वात्, ' तस्य ' इति च प्रकृतोपादानात् - नैवम्,
विज्ञानमयस्य अरूपित्वेन विजिज्ञापयिषितत्वात् ; यदि हि
तस्यैव विज्ञानमयस्य एतानि माहारजनादीनि रूपाणि स्युः,
तस्यैव 'नेति नेति' इत्यनाख्येयरूपतया आदेशो न स्यात् ।
ननु अन्यस्यैव असावादेशः, न तु विज्ञानमयस्येति-
षष्ठान्ते उपसंहरात्- ' विज्ञातारमरे केन विजानीयात् ' इति
विज्ञानमयं प्रस्तुत्य
स एष नेति नेति' - इति ; ' विज्ञप-
यिष्यामि' इति च प्रतिज्ञाया अर्थवत्त्वात् - यदि च विज्ञान-
मयस्यैव असंव्यवहार्यमात्मस्वरूपं ज्ञापयितुमिष्टं स्यात् प्रध्व-
स्त सर्वोपाधिविशेषम्, तत इयं प्रतिज्ञा अर्थवती स्यात् येन
असौ ज्ञापितो जानात्यात्मानमेव अहं ब्रह्मास्मीति शास्त्रनिष्ठां
प्राप्नोति, न बिभेति कुतञ्चन; अथ पुन: अन्यो विज्ञानमय:,
अन्यः 'नेति नेति' इति व्यपदिश्यते - तदा अन्यददो ब्रह्म
अन्योऽहमस्मीति विपर्ययो गृहीतः स्यात्, न 'आत्मानमे-
वावेदहं ब्रह्मास्मि' इति । तस्मात् ' तस्य हैतस्य' इति
लिङ्गपुरुषस्यैव एतानि रूपाणि । सत्यस्य च सत्ये परमात्म-
स्वरूपे वक्तव्ये निरवशेषं सत्यं वक्तव्यम्; सत्यस्य च विशे-
षरूपाणि वासनाः ; तासामिमानि रूपाण्युच्यन्ते ॥