2026-05-06 06:30:30 by ambuda-bot
This page has not been fully proofread.
२९०
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ३.
एतत् अनुकूलमवधारणम्, द्वे एव ब्रह्मणो रूपे इति ;
अन्यथा ब्रह्मैकदेशस्य विज्ञानात्मनो रूपे इति कल्प्यम्,
परमात्मनो वा विज्ञानात्मद्वारेणेति ; तदा च रूपे एवेति
द्विवचनमसमञ्जसम्; रूपाणीति वासनाभिः सह बहुवचनं
युक्ततरं स्यात् - द्वे च मूर्तीमूर्ते वासनाश्च तृतीयमिति 1
अथ मूर्तीमूर्ते एव परमात्मनो रूपे, वासनास्तु विज्ञानात्मन
इति चेत् — तदा विज्ञानात्मद्वारेण विक्रियमाणस्य परमात्म-
नः - इतीयं वाचो युक्तिरनर्थिका स्यात्, वासनाया अपि
विज्ञानात्मद्वारत्वस्य अविशिष्टत्वात्; न च वस्तु वस्त्वन्तर-
द्वारेण विक्रियत इति मुख्यया वृत्त्या शक्यं कल्पयितुम्;
न च 'विज्ञानात्मा परमात्मनो वस्त्वन्तरम्, तथा कल्पनायां
सिद्धान्तहानात् । तस्मात् वेदार्थमूढानां स्वचित्तप्रभवा एव-
मादिकल्पना अक्षरबाह्या: ; न ह्यक्षरबाह्यो वेदार्थः वेदार्थो -
पकारी वा निरपेक्षत्वात् वेदस्य प्रामाण्यं प्रति । तस्मात्
राशित्रयकल्पना असमञ्जसा ॥
"
' योऽयं दक्षिणेऽक्षन्पुरुष:' इति लिङ्गात्मा प्रस्तुत:
अध्यात्मे, अधिदैवे च य एष एतस्मिन्मण्डले पुरुष : '
इति, ' तस्य' इति प्रकृतोपादनात् स एवोपादीयते - यो-
ऽसौ त्यस्यामूर्तस्य रसः, न तु विज्ञानमयः । ननु विज्ञान-
-