2026-05-06 06:30:27 by ambuda-bot
This page has not been fully proofread.
२८८
बृहदारण्यकोपनिषद्भाष्ये
पुरुषार्थेन हेतुना प्रवर्तत इति सांख्या: ॥
[ब्रा. ३.
औपनिषदंमन्या अपि केचित्प्रक्रियां रचयन्ति - मूर्ता -
मूर्त राशिरेक:, परमात्मराशिरुत्तमः, ताभ्यामन्योऽयं मध्यमः
किल तृतीयः कर्त्रा भोक्त्रा विज्ञानमयेन अजातशत्रुप्रतिबो-
धितेन सह विद्याकर्म पूर्व प्रज्ञासमुदाय: ; प्रयोक्ता कर्मराशिः,
प्रयोज्यः पूर्वोक्तो मूर्त मूर्तभूतराशि: साधनं चेति । तत्र च
तार्किकैः सह संधिं कुर्वन्ति । लिङ्गाश्रयश्च एष कर्मराशि-
रित्युक्त्वा, पुनस्ततस्त्रस्यन्तः सांख्यत्वभयात् — सर्वः कर्म
राशि:- पुष्पाश्रय इव गन्धः पुष्पवियोगेऽपि पुटतैलाश्रयो
भवति, तद्वत्- लिङ्गवियोगेऽपि परमात्मैकदेशमाश्रयति, स
परमात्मैकदेशः किल अन्यत आगतेन गुणेन कर्मणा स-
गुणो भवति निर्गुणोऽपि सन् स कर्ता भोक्ता बध्यते
मुच्यते च विज्ञानात्मा — इति वैशेषिकचित्तमप्यनुसरन्ति ;
स च कर्मराशिः भूतराशेरागन्तुकः, स्वतो निर्गुण एव पर-
मात्मैकदेशत्वात् स्वत उत्थिता अविद्या अनागन्तुकापि
ऊषरवत् अनात्मधर्म:- इत्यनया कल्पनया सांख्यचित्तमनु-
वर्तन्ते ॥
'
-
"
सर्वमेतत् तार्किकैः सह सामञ्जस्यकल्पनया रमणीयं
पश्यन्ति, न उपनिषत्सिद्धान्तं सर्वन्यायविरोधं च पश्य-