Proofing

This page has not been fully proofread.

क. ६.]
 
द्वितीयोऽध्यायः ।
 
२८७
 
तस्य हैतस्य पुरुषस्य रूपम् । यथा
माहारजनं वासो यथा पाण्ड्राविकं यथे-
न्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा
सकृद्विद्युत्त सकृद्विद्युत्तव ह वा अस्य
• श्री भवति य एवं वेदाधात आदेशो ने -
ति नेति न ह्येतस्मादिति नेत्यन्यत्परम
स्त्यथ नामधेय सत्यस्य सत्यमिति प्रा.
णा वै सत्यं तेषामेष सत्यम् ॥ ६ ॥
 
इति द्वितीयाध्यायस्य तृतीयं ब्राह्मणम् ॥
ब्रह्मण उपाधिभूतयोर्मूर्तमूर्तयोः कार्यकरणविभागेनं अ-
ध्यात्माधिदैवतयोः विभागो व्याख्यातः सत्यशब्दवाच्य-
योः । अथेदानीं तस्य हैतस्य पुरुषस्य करणात्मनो लिङ्गस्य
रूपं वक्ष्यामः वासनामयं मूर्त मूर्तवासनाविज्ञानमयसंयोग-
जनितं विचित्रं पटभित्तिचित्रवत् मायेन्द्रजालमृगतृष्णि को-
पमं सर्वव्यामोहास्पदम् — एतावन्मात्रमेव आत्मेति विज्ञान-
वादिनो वैनाशिका यव भ्रान्ताः, एतदेव वासनारूपं पट-
रूपवत् आत्मनो द्रव्यस्य गुण इति नैयायिका वैशेषिकाश्च
संप्रतिपन्नाः, इदम् आत्मार्थं त्रिगुणं स्वतन्त्रं प्रधानाश्रयं