Proofing

This page has not been fully proofread.

२८६
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ३.
 
रारम्भकस्य कार्यस्य एष रस: सारः; तेन हि सारेण सार-
वदिदं शरीरं समस्तम् - यथा अधिदैवतमादित्य मण्डलेन ;
प्राथम्याञ्च - चक्षुषी एव प्रथमे संभवत: संभवत इति,
'तेजो रस्रो निरवर्तताग्निः' इति लिङ्गात् ; तैजसं हि चक्षुः ;
एतत्सारम् आध्यात्मिकं भूतत्रयम्; सतो ह्येष रस इति
मूर्तत्वसारत्वे हेत्वर्थ: ॥
 
अथामूर्त प्राणश्च यश्चायमन्तरात्म-
नाकाश एतदमृतमेतद्यदेतत्त्यत्तस्यैतस्या-
मूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्य-
स्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य
ह्येष रसः ॥
 
अथाधुना अमूर्तमुच्यते । यत्परिशेषितं भूतद्वयं प्राणश्च
यश्चायमन्तरात्मन्नाकाशः, एतदमूर्तम् । अन्यत्पूर्ववत् ।
एतस्य त्यस्य एष रसः सारः, योऽयं दक्षिणेऽक्षन्पुरुष:-
दक्षिणेऽक्षन्निति विशेषग्रहणम्, शास्त्रप्रत्यक्षत्वात्; लिङ्गस्य
हि दक्षिणेऽक्षिण विशेषतोऽधिष्ठातृत्वं शास्त्रस्य प्रत्यक्षम्,
सर्वश्रुतिषु तथा प्रयोगदर्शनात् । त्यस्य ह्येष रस इति पूर्व-
वत् विशेषतः अग्रह्णात् अमूर्तत्वसारत्व एव हेत्वर्थः ॥