Proofing

This page has not been fully proofread.

२८४
 
बृहदारण्यकोपनिषद्भाष्ये
 
[प्रा. ३.
 
एष: अमूर्तस्य भूतद्वयस्य रस : पूर्ववत् सारिष्ठ: । एतत्पुरुष-
सारं चामूर्त भूतद्वयम् - हैरण्यगर्भलिङ्गारम्भाय हि भूतद्वया-
भिव्यक्तिरव्याकृतात्; तस्मात् तादर्थ्यात् तत्सारं भूतद्वयम् ।
त्यस्य ह्येष रस: - यस्मात् य: मण्डलस्थः पुरुषो मण्डलवन्न
गृह्यते सारश्च भूतद्वयस्य, तस्मादस्ति मण्डलस्थस्य पुरुषस्य
भूतद्वयस्य च साधर्म्यम् । तस्मात् युक्तं प्रसिद्धवद्धेतूपादा-
नम् - त्यस्य ह्येष रस इति ॥
 
रसः कारणं हिरण्यगर्भविज्ञानात्मा चेतन इति केचित् ;
तत्र च किल हिरण्यगर्भविज्ञानात्मनः कर्म वाय्वन्तरिक्षयोः
प्रयोक्तृ; तत्कर्म वाय्वन्तरिक्षाधारं सत् अन्येषां भूतानां
प्रयोक्त भवति तेन स्वकर्मणा वाय्वन्तरिक्षयोः प्रयोक्तेति
तयोः रमः कारणमुच्यत इति । तन्न मूर्तरसेन अतुल्यत्वा-
त्; मूर्तम्य तु भूतत्रयस्य रसो मूर्तमेव मण्डलं दृष्टं भूत-
त्रयसमानजातीयम्; न चेतन: ; तथा अमूर्तयोरपि भूतयोः
तत्समानजातीयेनैव अमूर्तरसेन युक्तं भवितुम्, वाक्यप्रवृ
तेस्तुल्यत्वात्; यथा हि मूर्तमूर्ते चतुष्टयधर्मवती विभज्येते,
तथा रसरसवतोरपि मूर्तीमूर्तयोः तुल्येनैव न्यायेन युक्तो
विभाग: ; न त्वर्धवैशसम् । मूर्तरसेऽपि मण्डलोपाधिवे
तनो विवक्ष्यत इति चेत् — अत्यल्पमिदमुच्यते, सर्व-