Proofing

This page has not been fully proofread.

२८२
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. ३.
 
एतन्मर्त्यम्-
 
तन्मूर्त मूर्च्छितावयवम् इतरेतरानुप्रविष्टावयवं घनं संहतमित्य-
र्थः । किं तत् ? यदन्यत्; कस्मादन्यत् ? बायोश्चान्तरिक्षाच
भूतद्वयात् - परिशेषात्पृथिव्यादि भूतत्रयम्
यदेतन्मूर्ताख्यं भूतत्रयम् इदं मर्त्य मरणधर्मि; कस्मात् ?
यस्मात्स्थितमेतत्; परिच्छिन्नं ह्यर्थान्तरेण संप्रयुज्यमानं
विरुध्यते—यथा घटः स्तम्भकुड्यादिना ; तथा मूर्ते स्थितं
परिच्छिन्नम् अर्थान्तरसंबन्धि ततोऽर्थान्तरविरोधान्मर्त्यम्;
एतत्सत् विशेष्यमाणासाधारणधर्मवत्, तस्माद्धि परिच्छि
नम्, परिच्छिन्नत्वान्मर्त्यम्, अतो मूर्तम् मूर्तत्वाद्वा मर्त्य-
म्, मर्त्यत्वात्स्थितम्, स्थितत्वात्सत् । अतः अन्योन्याव्य-
भिचारात् चतुर्णा धर्माणां यथेष्टं विशेषणविशेष्यभावो
हेतुहेतुमद्भावश्च दर्शयितव्यः । सर्वथापि तु भूतत्रयं
चतुष्टयविशेषणविशिष्टं मूर्त रूपं ब्रह्मण: । तत्र चतु-
र्णामेकस्मिन्गृहीते विशेषणे इतरद्गृहीतमेव विशेषणमि-
त्याह- तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य, एतस्य स्थि-
एतस्य सत: - चतुष्टय विशेषणस्य भूतत्रयस्येत्य-
:- एष रस: सार इत्यर्थ: ; त्रयाणां हि भूतानां सारि-
 
-
 
तस्य,
 
र्थ:-
 
ष्ठः सविता ; एतत्साराणि त्रीणि भूतानि, यत एतत्कृत वि-
 
भज्यमानरूपविशेषणानि भवन्ति ; आधिदैविकस्य कार्यस्यै-