Proofing

This page has not been fully proofread.

क. २.]
 
द्वितीयोऽध्यायः ।
 
२८१
 
द्वे वाव - वावशब्दोऽवधारणार्थ:- द्वे एवेत्यर्थः - ब्रह्मण:
परमात्मन: रूपे - रूप्यते याभ्याम् अरूपं परं ब्रह्म अवि-
द्याध्यारोप्यमाणाभ्याम् । के ते द्वे ? मूर्त चैव मूर्तमेव च ;
तथा अमूर्त च अमूर्तमेव चेत्यर्थः । अन्तर्णीतस्वात्म विशे-
षणे मूर्तीमूर्ते द्वे एवेत्यवधार्येते; कानि पुनस्तानि विशेषणा-
नि मूर्त मूर्तयोरित्युच्यन्ते -- म च मत्यै मरणधर्म, अ-
मृतं च तद्विपरीतम्, स्थितं च- परिच्छिन्नं गतिपूर्वकं यत्स्थास्नु,
यच्च- यातीति यत् - व्यापि अपरिच्छिन्नं स्थितविपरी-
तम्, सच्च - सदित्यन्येभ्यो विशेष्यमाणासाधारणधर्मविशे-
षवत्, त्यश्च्च- तद्विपरीतम् ' त्यत्' इत्येव सर्वदा परोक्षा-
भिधानार्हम् ॥
 
तदेतन्मूर्त यदन्यद्वायोश्चान्तरिक्षाचै-
तन्मर्त्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्त-
स्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत
एष रसो य एष तपति सतो ह्येष
रसः ॥ २ ॥
 
तत्र चतुष्टयविशेषणविशिष्टं मूर्तम्, तथा अमूर्त च; तत्र
कानि मूर्तविशेषणानि कानि चेतराणीति विभज्यते । तदे-