2026-05-06 06:30:24 by ambuda-bot
This page has not been fully proofread.
तृतीयं ब्राह्मणम् ॥
द्वे वा ब्रह्मणो रूपे मूर्त चैवामूर्त
च मर्त्य चामृतं च स्थितं च यच्च सच्च
- त्यच्च ॥ १ ॥
तत्र प्राणा वै सत्यमित्युक्तम् । याः प्राणानामुपनिषदः,
ता: ब्रह्मोपनिषत्प्रसङ्गेन व्याख्याता:- एते ते प्राणा इति
च । ते किमात्मकाः कथं वा तेषां सत्यत्वमिति च वक्तव्य-
मिति पञ्चभूतानां सत्यानां कार्यकरणात्मकानां स्वरूपाव-
धारणार्थम् इदं ब्राह्मणमारभ्यते— यदुपाधिविशेषापनय-
द्वारेण 'नेति नेति' इति ब्रह्मणः सतत्त्वं निर्दिधारयि-
षितम् । तत्र द्विरूपं ब्रह्म पश्चभूतजनितकार्यकरणसंबद्ध
मूर्तीमूर्ताख्यं मर्त्यामृतस्वभावं तज्जनितवासनारूपं च सर्वज्ञं
सर्वशक्ति सोपाख्यं भवति । क्रियाकारकफलात्मकं च स-
व्यवहारास्पदम् । तदेव ब्रह्म विगत सर्वोपाधिविशेषं सम्य-
ग्दर्शनविषयम् अजरम् अमृतम् अभयम्, वाङ्मनसयोरप्य-
विषयम् अद्वैतत्वात् 'नेति नेति' इति निर्दिश्यते । तत्र
यदपोहद्वारेण 'नेति नेति' इति निर्दिश्यते ब्रह्म, ते एते