Proofing

This page has not been fully proofread.

क. ४.]
 
द्वितीयोऽध्यायः ।
 
२७९
 
उपदिशन्नुवाच -- इमावेव विश्वामित्रजमदग्नी दक्षिणं वि-
श्वामित्र: उत्तरं 'जमदग्निः, विपर्ययेण वा । इमावेव वास-
ष्ठकश्यपौ - नासिके उपदिशन्नुवाच दक्षिण: पुटो भवति
वसिष्ठः ; उत्तरः कश्यपः- पूर्ववत् । वागेव अत्रि : अदनक्रि-
यायोगात् सप्तमः ; वाचा ह्यन्नमद्यते; तस्मादत्तिर्ह वै प्रसिद्धं
नामैतत् - अत्तत्वादत्तिरिति, अत्तिरेव सन् यदत्रिरित्युच्यते
परोक्षेण । सर्वस्य एतस्यान्नजातस्य प्राणस्य, अत्रिनिर्वचन-
विज्ञानादत्ता भवति । अत्तैव भवति नामुष्मिन्नन्येन पुन: प्र-
त्यद्यते इत्येतदुक्तं भवति - सर्वमस्यान्नं भवतीति । य एवम्
एतत् यथोक्तं प्राणयाथात्म्यं वेद, स एवं मध्यमः प्राणो
भूत्वा
आधानप्रत्याधानगतो भोक्तैव भवति, न भोज्यम् ; भोज्या-
व्यावर्तत इत्यर्थः ॥
 
इति द्वितीयाध्यायस्य द्वितीयम् ब्राह्मणम् ॥